ॐ तत्सत् ॥
ॐ ब्रह्मणे नमः ॥
मूलाधारे वारिजपत्रे चतरस्रे वं शं षं सं वर्णविशालं सुविशालम् ।
रक्तं वर्णे श्रीगणनाथं भगवन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १॥
स्वाधिष्ठाने षट्दल पद्मे तनुलिङ्गं बालां तं तद्वर्णमयाभं सुविशालम् ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ २॥
नाभौपद्मं पत्रदशाढ्यं ड फ वर्णं लक्ष्मीकान्तं गरुडारूढं नरवीरम् ।
नीलं वर्णं निर्गुणरूपं निगमान्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ३॥
हृत्पद्मान्ते द्वादशपत्रे क ठ वर्णे शैवं साम्बं पारमहंस्यं रमयन्तम् ।
सर्गत्राणाद्यन्त करंतं शिवरूपं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ४॥
कण्ठस्थाने चक्रविशुद्धे कमलान्ते चन्द्राकारे षोडशपत्रे स्वरयुक्ते ।
मायाधीशं जीवविशेषं स्थितिमन्तं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ५॥
आज्ञाचक्रे भ्रूयुगमध्ये द्विदलान्ते हं क्षं बीजं ज्ञानसमुद्रं परमन्तम् ।
विद्युद्वर्णंस्यात्मस्वरूपं निगमाग्रिं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ६॥
मूर्ध्निस्थाने पत्रसहस्रैर्युत पद्मे पीयूषाब्धेरन्तरङ्गं तममृतौचम् ।
हंसाख्यं तं रूपमतीतं च तुरीयं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ७॥
ब्रह्मानन्दं ब्रह्ममुकुन्दादि सुरूपं ब्रह्मज्ञानं ज्ञानमयं तं तमरूपम् ।
ब्रह्मज्ञानं ज्ञानि मुनीन्द्रै रुचितांङ्गं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ८॥
शान्ताकारं शेषशयानं सुरवन्द्यं लक्ष्मीकान्तं कोमलगात्रं कमलाक्षम् ।
चिन्तारत्नं चिद्घनपूर्णं द्विजराजं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ ९॥
चितोङ्कारैः सङ्गनिनादैः अतिवेद्यैः कादिक्षान्तैर्ह्यक्षरवर्णैः परिपूर्णम् ।
वेदान्तावेद्यैस्तच्च ज्ञानैरनुवेद्यं दत्तात्रेयं श्रीगुरुमूर्तिं प्रणतोऽस्मि ॥ १०॥
आधारे लिङ्ग नाभौ हृदय सरसिजे । तालुमूले ललाटे द्वेपत्रे षोडशारे ।
द्विदश दशदले द्वादशर्ये चतुष्के ॥ ११॥
वासांते बालमध्ये डफ कठ सहिते । कण्ठदेशे स्वराणां हंक्षं तच्चार्थयुक्तम् ।
सकल दलगतं वर्णेरूपं नमामि ॥ १२॥
हंसो गणेशो विधिरेव हंसो हंसो हरिर्हंसमयश्च शम्भुः ।
हंसोऽहमात्मा परमात्म हंसो हंसो हि जीवो गुरुरेव हंसः ॥ १३॥
गमागमस्थंगमनादिरूपं चिद्रूपरूपं तिमिरापहारम् ।
पश्यामितंसर्वजनांतरस्थं नमामि हंसं परमात्मरूपम् ॥ १४॥
हंसहंसेति यो ब्रूयाद्योवैनाम सदाशिवः । मानवस्तपठेन्नित्यं ब्रह्मलोकं सगच्छति ॥
इति श्री अजपाजपस्तोत्रं समाप्तं ॥

No comments:
Post a Comment